विष्णु सहस्त्रनामम: भगवान विष्णु का दिव्य पाठ और जाप विधि

विष्णु सहस्त्रनामम भगवान विष्णु के 1000 नामों का एक महत्त्वपूर्ण संग्रह है। यह मंत्र न केवल आध्यात्मिक उन्नति के लिए प्रसिद्ध है, बल्कि यह जीवन में शांति और समृद्धि लाने में भी मदद करता है। Vishnu Sahasranamam का जाप करने से मानसिक और शारीरिक शांति मिलती है, और भक्त भगवान विष्णु के गुणों का अनुभव कर पाते हैं। यह दिव्य पाठ इस प्रकार से है-

Vishnu Sahasranamam

प्रस्तावना

शुक्लांबरधरं विष्णुं शशिवर्णं चतुर्भुजम्।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये॥

यस्य द्विरदवक्त्राद्याः पारिषद्याः परः शतम्।
विघ्नं निघ्नन्ति सततं विश्वक्सेनं तमाश्रये॥

व्यासं वशिष्ठनप्तारं शक्तेः पौत्रमकल्मषम्।
पाराशरात्मजं वन्दे शुकतातं तपोनिधिम्॥

व्यासाय विष्णुरूपाय व्यासरूपाय विष्णवे।
नमो वै ब्रह्मनिधये वासिष्ठाय नमो नमः॥

अविकाराय शुद्धाय नित्याय परमात्मने।
सदैकरूपरूपाय विष्णवे सर्वजिष्णवे॥

यस्य स्मरणमात्रेण जन्मसंसारबन्धनात्।
विमुच्यते नमस्तस्मै विष्णवे प्रभविष्णवे॥

ॐ नमो विष्णवे प्रभविष्णवे॥

विष्णु सहस्रनाम – पूर्व भाग

वैशम्पायन उवाच

श्रुत्वा धर्मानशेषेण पावनानि च सर्वशः।
युधिष्ठिरः शान्तनवं पुनरेवाभ्यभाषत॥

युधिष्ठिर उवाच

किमेकं दैवतम् लोके, किम वाप्येकं परायणम्।
स्तुवन्तः कं कमर्चन्तः प्राप्नुयुर्मानवाः शुभम्॥

को धर्मः सर्वधर्माणां परमो मतः।
किं जपन्मुच्यते जन्तुः जन्मसंसारबन्धनात्॥

विष्णु सहस्रनाम – पूर्व भाग

भीष्म उवाच

जगत्प्रभुं देवदेवं अनन्तं पुरुषोत्तमम्।
स्तुवन्नाम सहस्रेण पुरुषः सततोत्थितः॥

तमेव चार्चयन्नित्यं भक्त्या पुरुषमव्ययम्।
ध्यायन् स्तुवन् नमस्यंश्च यजमानस्तमेव च॥

अनादिनिधनं विष्णुं सर्वलोकमहेश्वरम्।
लोकाध्यक्षं स्तुवन्नित्यं सर्वदुःखातिगो भवेत्॥

ब्राह्मण्यं सर्वधर्मज्ञं लोकानां कीर्तिवर्धनम्।
लोकनाथं महद्भूतं सर्वभूतभवोद्धवम्॥

एष मे सर्वधर्माणां धर्मोऽधिकतमो मतः।
यद्भक्त्या पुण्डरीकाक्षं स्तवैर्अर्चन्नरः सदा॥

परमं यो महत्तेजः परमं यो महत्तपः।
परमं यो महद्ब्रह्म परमं यः परायणम्॥

पवित्राणां पवित्रं यो मङ्गलानां च मङ्गलम्।
दैवतं देवतानां च भूतानां यो व्ययः पिता॥

यतः सर्वाणि भूतानि भवन्त्यादि युगागमे।
यस्मिंश्च प्रलयं यान्ति पुनरेव युगक्षये॥

तस्य लोकप्रधानस्य जगन्नाथस्य भूपते।
विष्णोर्नाम सहस्रं मे शृणु पापभयापहम्॥

यानि नामानि गौणानि विख्यातानि महात्मनः।
ऋषिभिः परिगीतानि तानि वक्ष्यामि भूतये॥

ऋषिः नाम्नां सहस्रस्य वेदव्यासो महामुनिः।
छन्दोऽनुष्टुप्तथा देवो भगवान् देवकीसुतः॥

अमृतं शुद्धभावो बीजं शक्तिर्देवकीनन्दनः।
त्रिसामा हृदयं तस्य शान्त्यर्थे विनियोज्यते॥

विष्णुं जिष्णुं महाविष्णुं प्रभविष्णुं महेश्वरम्।
अनेक रूप दैत्यान्तं नमामि पुरुषोत्तमम्॥

विष्णु सहस्रनाम – ध्यानम्

प्रारंभिक मंत्र

अस्य श्रीविष्णोः दिव्यसहस्रनाम स्तोत्र महा मंत्रस्य।

श्री वेदव्यासो भगवान् ऋषिः।

अनुष्टुप् छन्दः।
श्री महाविष्णुः परमात्मा श्रीमन नारायणो देवता।
अमृतं शुद्धभावो भानुरिति बीजम्।
देवकीनन्दनः स्रष्टेति शक्तिः।

उद्भवः क्षोभणो देव इति परमः मंत्रः।
शंखभृन्नन्दकी चक्रीति कीलकम्।
शार्ङ्गधन्वा गदाधर इत्यस्त्रं।
रथांगपाणिः रक्षोभ्य इति नेत्रम्।

त्रिसामा सामगः सामेति कवचम्।
आनन्दं परब्रह्मेति योनिः।
ऋतुः सुदर्शनः काल इति दिग्बन्धः।
श्री विश्वरूप इति ध्यानम्।
श्री महाविष्णु प्रीत्यर्थं सहस्रनाम जपे विनियोगः॥

विष्णु सहस्रनाम – ध्यानम्

ध्यान श्लोक

क्षीरोदन्वत् प्रदेशे सुचिमणि विलसत् सैकतेर्मौक्तिकानाम्।
मालाक्लिप्तासनस्थः स्फटिकमणिनिभैर् मौक्तिकैर्मण्डिताङ्गः॥
शुभ्रैरभ्रैरदभ्रैरुपरिविरचितैर् मुक्तपीयूषवर्षैः।
आनन्दीनः पुण्यदाः नलिनगदा शङ्खपाणिर्मुकुन्दः॥

भूमिः पादौ यस्य नाभिर् व्यदसुरनिलश्चन्द्रसूर्यौ च नेत्रे।
कर्णावाशः शिरो द्यौर् मुखमपि दहनो यस्य वा स्तेयमब्धिः॥
अन्तःस्थं यस्य विश्वं सुरनरखगगोभोगिगन्धर्वदैत्यैः।
चित्रं रम्यते तं त्रिभुवनवपुषं विष्णुमीशं नमामि॥

ॐ शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं।
विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गम्॥
लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यम्।
वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम्॥

मेघश्यामं पीतकौशेयवासं।
श्रीवत्साङ्कं कौस्तुभोद्धासिताङ्गम्॥
पुण्योपेतं पुण्डरीकायताक्षं।
विष्णुं वन्दे सर्वलोकैकनाथम्॥

नमः समस्तभूतानाम् आदि भूताय भूभृते।
अनेक रूपरूपाय विष्णवे प्रभविष्णवे॥

सशङ्खचक्रं सकिरीटकुण्डलम्।
सपीतवस्त्रं सरसीरुहैक्षणम्॥
सहारवक्षःस्थलकौस्तुभश्रियं।
नमामि विष्णुं शिरसा चतुर्भुजम्॥

छायायां पारिजातस्य हेमसिंहासनोपरी।
आसीनं अम्बुदश्यामं मायाताक्षं अलङ्कृतम्॥
चन्द्राननं चतुर्भाहुं श्रीवत्साङ्कितवक्षसम्।
रुक्मिणीसत्यभामाभ्यां सहितं कृष्णमाश्रये॥

Vishnu Sahasranamam Stotram

ॐ विश्वं विष्णुर्वषट्कारो भूत-भव्य-भवत्प्रभुः।
भूतकृत् भूतभृद्भावो भूतात्मा भूतभावनः॥1॥

पूतात्मा परमात्मा च मुक्तानां परमागतिः।
अव्ययः पुरुषः साक्षी क्षेत्रज्ञोऽक्षर एव च॥2॥

योगो योगविदां नेता प्रधानपुरुषेश्वरः।
नरसिंहवपुः श्रीमान् केशवः पुरुषोत्तमः॥3॥

सर्वः सर्वः शिवः स्थाणुर्भूतादिर्निधिरव्ययः।
संभावो भावनो भर्ता प्रभवः प्रभुरेश्वरः॥4॥

स्वयम्भूः शम्भुरादित्यः पुष्कराक्षो महास्वनः।
आनन्दी निधनो धाता विधाता धातुरुत्तमः॥5॥

अप्रमेयो हृषीकेशः पद्मनाभोऽमरप्रभुः।
विश्वकर्मा मनुस्त्वष्टा स्थविष्ठः स्थविरो ध्रुवः॥6॥

अग्राह्यः शाश्वतः कृष्णो लोहिताक्षः प्रतर्दनः।
प्रभूतस्त्रिककुब्धाम पवित्रं मङ्गलं परम्॥7॥

ईशानः प्राणदः प्राणो ज्येष्ठः श्रेष्ठः प्रजापतिः।
हिरण्यगर्भो भूगर्भो माधवो मधुसूदनः॥8॥

ईश्वरो विक्रमी धन्वी मेधावी विक्रमः क्रमः।
अनुत्तमो दुराधर्षः कृतज्ञः कृतिरात्मवान्॥9॥

सुरेशः शरणं शर्म विश्वरेताः प्रजाभवः।
अहः संवत्सरो व्यालः प्रत्ययः सर्वदर्शनः॥10॥

अजः सर्वेश्वरः सिद्धः सिद्धिः सर्वादिरच्युतः।
वृषाकपिरमेयात्मा सर्वयोगविनिःसृतः॥11॥

वसुर् वसुमनाः सत्यः समात्मा सम्मितः समः।
अमोघः पुण्डरीकाक्षो वृषकर्मा वृषाकृतिः॥12॥

रुद्रो बहुशिरा बभ्रुर् विश्वयोनिः शुचिश्रवाः।
अमृतः शाश्वतस्थाणुर्वरारोहो महातपः॥13॥

सर्वगः सर्वविद्भानुर्विश्वक्सेनो जनार्दनः।
वेदो वेदविदव्यङ्गो वेदाङ्गो वेदवित्कविः॥14॥

लोकाध्यक्षः सुराध्यक्षो धर्माध्यक्षः कृताकृतः।
चतुरात्मा चतुर्व्यूहश्चतुर्दंष्ट्रश्चतुर्भुजः॥15॥

भ्राजिष्णुर्भोजनं भोक्ता सहिष्णुर्जगदादिजः।
अनघो विजयो जेता विश्वयोनिः पुनर्वसुः॥16॥

उपेन्द्रो वामनः प्रांशुरमोघः शुचिरुर्जितः।
अतीन्द्रः संग्रहः सर्गो धृतात्मा नियमो यमः॥17॥

वेद्यो वैद्यः सदा योगी विरह माधवो मधुः।
अतीन्द्रियो महामायो महोत्साहो महाबलः॥18॥

महाबुद्धिर्महावीर्यो महाशक्तिर्महाद्युतिः।
अनिर्देश्यवपुः श्रीमान् अमेयात्मा महाद्रिधृक्॥19॥

महेश्वासो महीभर्ता श्रीनिवासः सतां गतिः।
अनिरुद्धः सुरानन्दो गोविन्दो गोविदां पतिः॥20॥

मारीचिर्दमनो हंसः सुपर्णो भुजगोत्तमः।
हिरण्यनाभः सुतपाः पद्मनाभः प्रजापतिः॥21॥

अमृत्युः सर्वदृक् सिंहः संधाता संधिमान् स्थिरः।
अजो दुर्मर्षणः शास्ता विश्रुतात्मा सुरारिहा॥22॥

गुरुर्गुरुतमो धाम सत्यः सत्यपराक्रमः।
निमिषोऽनिमिषः स्रग्वी वाचस्पतिरुदारधीः॥23॥

अग्रणीर्ग्रामणीः श्रीमान् न्यायो नेता समीरणः।
सहस्रमूर्धा विश्वात्मा सहस्राक्षः सहस्रपात्॥24॥

आवर्तनो निवृत्तात्मा संवृतः संप्रमर्दनः।
अहः संवर्तको वह्निरनिलो धरनीधरः॥25॥

सुप्रसादः प्रसन्नात्मा विश्वधृग् विश्वभुग्विभुः।
सत्कर्ता सत्कृतः साधुर्जह्नुर् नारायणो नरः॥26॥

असंख्येयो प्रमेयात्मा विशिष्टः शिष्टकृच्छुचिः।
सिद्धार्थः सिद्धसंकल्पः सिद्धिदः सिद्धिसाधनः॥27॥

वृषाही वृषभो विष्णुर्वृषपर्वा वृषोदरः।
वर्धनो वर्धमानश्च विविक्तः श्रुतिसागरः॥28॥

सुभुजो दुर्धरो वाग्मी महेन्द्रो वसुदो वसुः।
नैकरूपो बृहद्रूपः शिपिविष्टः प्रकाशनः॥29॥

ओजस्तेजोद्युतिधरः प्रकाशात्मा प्रतापनः।
ऋद्धः स्पष्टाक्षरो मन्त्रश्चन्द्रांशूर्भास्करद्युतिः॥30॥

अमृतांशूद्भवो भानुः शशबिन्दुः सुरेश्वरः।
औषधं जगतः सेतुः सत्यधर्मपराक्रमः॥31॥

भूतभव्यभवन्नाथः पावनः पावनो अनलः।
कामः कामकृत् कान्तः कामः कामप्रदः प्रभुः॥32॥

युगादिकृद् युगावर्तो नैकमायो महाशनः।
अदृश्यो व्यक्तरूपश्च सहस्रजित् अनन्तजित्॥33॥

इष्टोविशिष्टः शिष्टेष्टः शिखण्डी नहुषो वृषः।
क्रोधः क्रोधकृत्कर्ता विश्वबाहुर्महीधरः॥34॥

अच्युतः प्रतितः प्राणः प्राणदो वासवानुजः।
अपांनिधिरधिष्ठानम् अप्रमत्तः प्रतिष्ठितः॥35॥

स्कन्दः स्कन्दधरो धुर्यो वरदो वायुवाहनः।
वासुदेवो बृहद्भानुरादिदेवः पुरन्दरः॥36॥

अशोकस्तारणस्तारः शूरः शौरिर्जनेश्वरः।
अनुकूलः शतावर्तः पद्मी पद्मनिभेक्षणः॥37॥

पद्मनाभोऽरविन्दाक्षः पद्मगर्भः शरीरभृत्।
महर्द्धिरृद्धो वृद्धात्मा महाक्षो गरुडध्वजः॥38॥

अतुलः शरभो भीमः समयज्ञो हविर्हरिः।
सर्वलक्षण लक्षण्यो लक्ष्मीवान् समितिंजयः॥39॥

विक्षरो रोहितो मार्गो हेतुर्दामोदरः सहः।
महीधरः महाभागो वेगवानमिताशनः॥40॥

उद्भवः क्षोभणो देवः श्रीगर्भः परमेश्वरः।
कारणं कारणं कर्ता विकर्ता गहनो गुहः॥41॥

व्यवसायो व्यवस्थानः संस्थानः स्थानदो ध्रुवः।
परर्द्धिः परमा स्पष्टस्तुष्टः पुष्टः शुभेक्षणः॥42॥

रामो विरामो विरजो मार्गो नेयो नयो अनयः।
वीरः शक्तिमतां श्रेष्ठो धर्मो धर्मविदुत्तमः॥43॥

वैकुण्ठः पुरुषः प्राणः प्राणदः प्राणवः पृथुः।
हिरण्यगर्भः शत्रुघ्नो व्याप्तो वायुरधोक्षजः॥44॥

ऋतुः सुदर्शनः कालः परमेष्ठी परिग्रहः।
उग्रः संवत्सरो दक्षो विश्रामो विश्वदक्षिणः॥45॥

विस्तारः स्थावरस्थानुः प्रमाणं बीजमव्ययम्।
अर्थोऽनर्थो महाकोशो महाभोगो महाधनः॥46॥

अनिर्विण्णः स्तविष्ठोभूर्धर्मयूपो महामखः।
नक्षत्रनेमिर्नक्षत्री क्षमः क्षामः समीहनः॥47॥

यज्ञ इज्यो महेज्यश्च क्रतुः सत्रं सतां गतिः।
सर्वदर्शी विमुक्तात्मा सर्वज्ञो ज्ञानमुत्तमम्॥48॥

सुव्रतः सुमुखः सूक्ष्मः सुघोषः सुखदः सुहृत्।
मनोहरो जितक्रोधो वीरबाहुर्विदारणः॥49॥

स्वापनः स्ववशो व्यापी नैकात्मा नैककर्मकृत्।
वत्सरो वत्सलो वत्सी रत्नगर्भो धनेश्वरः॥50॥

धर्मगुब्धर्मकृद्दर्मी सदसत्क्षरमक्षरम्।
अविज्ञाता सहस्रांशुर्विधाता कृतलक्षणः॥51॥

गभस्तिनेमिः सत्त्वस्थः सिंहो भूतमहेश्वरः।
आदिदेवो महादेवो देवेशो देवभृद्गुरुः॥52॥

उत्तरः गोपतिर् गोप्त्ता ज्ञानगम्यः पुरातनः।
शरीरभूतभृद्भोक्ता कपीन्द्रो भूरिदक्षितः॥53॥

सोमपोऽमृतपः सोमः पुरुजित्पुरुषोत्तमः।
विनयो जयः सत्यसंधो दाशार्हः सात्वतां पतिः॥54॥

जीवो विनयितासाक्षी मुकुन्दोऽमितविक्रमः।
अम्भोनिधिरनन्तात्मा महोद्धधिशयोऽन्तकः॥55॥

अजो महार्हः स्वाभाव्यो जितामित्रः प्रमोदनः।
आनन्दो नन्दनो नन्दः सत्यधर्मा त्रिविक्रमः॥56॥

महर्षिः कपिलाचार्यः कृतज्ञो मेदिनीपतिः।
त्रिपादस्त्रिदशाध्यक्षो महाशृंगः कृतान्तकृत्॥57॥

महावराहो गोविन्दः सुशेणः कनकाङ्गदी।
गुह्यो गंभीरोगहनः गुप्तश्चक्रगदाधरः॥58॥

वेदाः स्वाङ्गोऽजितः कृष्णो दृढः संकर्षणोऽच्युतः।
वरुणो वारुणो वृक्षः पुष्कराक्षो महामनाः॥59॥

भगवान् भगहाऽनन्दी वनमाली हलायुधः।
आदित्यः ज्योतिरादित्यः सहिष्णुर्गतिसत्तमः॥60॥

सुधन्वा खण्डपरशुर्दारुणो द्रविणप्रदः।
दिवःस्पृक् सर्वदृग्व्यासो वाचस्पतिरयोनिजः॥61॥

त्रिसामा सामगः साम निर्वाणं भेषजं भिषक्।
सन्यासकृच्छमः शान्तो निष्ठा शान्तिः परायणम्॥62॥

शुभाङ्गः शान्तिदः स्रष्टा कुमुदः कुवलेशयः।
गोहीतो गोपतिर् गोप्त्ता वृषभाक्षो वृषप्रियः॥63॥

अनिवर्ती निवृत्तात्मा संक्षेप्ता क्षेमकृच्चिवः।
श्रीवत्सवक्षाः श्रीवासः श्रीपतिः श्रीमतां वरः॥64॥

श्रीदः श्रीशः श्रीनिवासः श्रीनिधिः श्रीविभावनः।
श्रीधरः श्रीकरः श्रेयः श्रीमाँ लोकत्रयाश्रयः॥65॥

स्वाक्षः स्वाङ्गः शतानन्दो नन्दिर्ज्योतिर्गणेश्वरः।
विजितात्मा विधेयात्मा सत्कीर्तिश्चिन्नसंशयः॥66॥

उदीर्णः सर्वतश्चक्षुरनीशः शाश्वतः स्थिरः।
भूशयो भूषणो भूतिर्विशोकः शोकनाशनः॥67॥

अर्चिष्मानर्चितः कुम्भो विशुद्धात्मा विशोधनः।
अनिरुद्धः प्रतिरथः प्रद्युम्नोऽमितविक्रमः॥68॥

कलानेमिनिहा वीरः शौरिः सुरजनेश्वरः।
त्रैलोक्यात्मा त्रैलोक्येशः केशवः केशिहा हरिः॥69॥

कामदेवः कामपालः कामी कान्तः कृतागमः।
अनिर्देश्यवपुर्विष्णुर्वीरोऽनन्तो धनञ्जयः॥70॥

ब्रह्मण्यो ब्रह्मकृद्ब्रह्मा ब्रह्मा ब्रह्मविवर्धनः।
ब्रह्मविद् ब्रह्मणो ब्राह्मी ब्रह्मयज्ञो ब्राह्मणप्रियः॥71॥

महाक्रमो महाकर्मा महातेजा महोरगः।
महाक्रतुर् महायज्वा महायज्ञो महाहविः॥72॥

स्तव्यः स्तवप्रियः स्तोत्रं स्तुतिः स्तोता रणप्रियः।
पूर्णः पूरयिता पुण्यः पुण्यकीर्तिरनामयः॥73॥

मनोजवस्तीर्थकरो वसुरेता वसुप्रदः।
वसुप्रदो वासुदेवो वसुर् वासुमनाः हविः॥74॥

सद्गतिर्न सत्कृतिः सत्ता सद्भूतिः सत्परायणः।
सुरसेनो यदुश्रेष्ठः संनिवासः सुयमुनः॥75॥

भूतवसो वासुदेवः सर्वसु निलयो अनलः।
दर्पः दर्पदो द्रुप्तो दुरधरोऽथपराजितः॥76॥

विश्वमूर्ति महामूर्ति दीप्तमूर्ति अमूर्तिमान्।
अनेकामूर्ति अव्यक्तः शतमूर्ति शताननः॥77॥

एको नायकः सवः कः किम् यत् तत् पदम् अनुत्तमम्।
लोकबन्धुर् लोकनाथो माधवो भक्तवत्सलः॥78॥

सुवर्णवर्णो हेमांगो वरङ्गः चन्दनाङ्गदी।
विरहः विषमः शून्यः घृतशीर् चलश्चलः॥79॥

अमानि मानदो मन्यो लोकस्वामी त्रिलोकधृक्।
सुमेधाः मेधाजो धन्यः सत्यमेधाः धराधरः॥80॥

तेजोवृषो द्युति धारः सर्वशास्त्र भ्रुतां वरः।
प्रग्रहो निग्रहो व्याग्रः नैकश्रृंगो गदाग्रजः॥81॥

चतुर्मूर्तिः चतुर्भुजः चतुर्व्यूहः चतुर्गतिः।
चतुर्तात्मा चतुर्भवः चतुर्वेदविद् एकपात्॥82॥

समावर्तो अनिवृतात्मा दुर्जयो दुरतिक्रमः।
दुर्लभो दुर्गमो दुर्गो दुरवासो दुरारिहा॥83॥

शुभाङ्गो लोकसारङ्गो सुतन्तुस् तन्तुवर्धनः।
इन्द्रकर्मा महाकर्मा कृतकर्मा कृतागमः॥84॥

उद्भवः सुंदरः सुन्दो रत्ननाभः सुलोचनः।
अर्को वाजसनः शृङ्गी जयन्तः सर्वविजयी॥85॥

सुवर्णबिन्दुर् क्शोभ्यः सर्ववागीश्वरश्वरः।
महाह्रदः महागर्तः महाभूतो महनिधिः॥86॥

कुमुदः कुन्दरो कुन्दः पर्जन्यः पावनोऽनिलः।
अमृताशो अमृतवपुः सर्वज्ञः सर्वतोमुखः॥87॥

सुलभः सुव्रतः सिद्धः शत्रुजित् शत्रुतापनः।
न्यग्रोधो अदुम्बरो स्वत्त्वस्चानुरन्ध्र निषूदनः॥88॥

सहस्रार्चिः सप्तजिव्हा सप्तैधः सप्तवाहनः।
अमूर्तिर् अनघोऽचिन्त्यो भयकृद् भयनाशनः॥89॥

अनुर् बृहत् कृष्णः स्थूलः गुणभृत् निर्गुणो महान्।
अधृतः स्वधृतः स्वस्यः प्रग्वंशी वसनश्वर्धनः॥90॥

भारभृत् कथितो योगि योगीशः सर्वकामदः।
आश्रमः श्रमणः क्षमः सुपर्णो वायुवाहनः॥91॥

धनुर्धरो धनुर्वेदो दण्डो दामयितो दमः।
अपराजितः सर्वसाहो नियन्ता नियमो यमः॥92॥

सत्त्ववान् सात्विकः सत्यः सत्यधर्मपरायणः।
अभिप्रायः प्रियार्थोऽर्हः प्रियकृत् प्रियवर्धनः॥93॥

विहायसगतिर्ज्योतिर्वरुचिर्हुतभुग्विभुः।
रविर्विरोचनः सूर्यः सविता रविलोचनः॥94॥

अनन्तो हुतभुग्भोक्ता सुखदो नैकजो ग्रहः।
अनिर्विण्णः सदाामर्षी लोकाधिष्ठानमद्भुतः॥95॥

सनत्सनातनतमः कापिलः कपिरव्ययः।
स्वस्तिदः स्वस्तिकृत् स्वस्ति स्वस्तिभुक् स्वस्तिदक्षिणः॥96॥

आरौद्रः कुण्डली चक्रि विक्रम्युर्जिताशासनः।
शब्दतिगः शब्दसाहः शिशिरः शर्वरिकरः॥97॥

अक्रूरः पेशलः दक्षो दक्षिणः क्षमीनांवरः।
विद्वत्तमो वितभयः पुण्यश्रवणकीर्तनः॥98॥

उत्तारणो दुश्कृतिहा पुण्यो दुःस्वपननाशनः।
वीरह रक्षणः सन्तो जीवः पर्यवस्थितः॥99॥

अनन्तरूपो अनन्तश्रीजितमन्युर् भयपाहः।
चतुराश्रः गभीरात्मा विद्याशो व्यदीशो दिशः॥100॥

अनादी भूर्भुवो लक्ष्मीः सुवीरो रुचिराङ्गदः।
जननो जनजनमदीर् भीमो भीमा पराक्रमः॥101॥

अधारणिलयो धाता पुष्पहासः प्रजागारः।
ऊर्ध्वगः सत्पथाचारः प्राणदः प्रणवः पाणः॥102॥

प्रमाणं प्राणनिलयः प्राणभृत् प्राणजीवनः।
तत्त्वं तत्त्वविदेकात्मा जन्ममृत्युजारातिगः॥103॥

भूर् भुवः स्वस्तरस्तरः सविता प्रपितामहः।
यज्ञो यज्ञपतिर्यज्ञा यज्ञांगो यज्ञवाहनः॥104॥

यज्ञभृत् यज्ञकृत् यज्ञी यज्ञभुग् यज्ञसाधनः।
यज्ञान्तकृत् यज्ञगुह्यमन्नं अन्नद एवा च॥105॥

आत्मायोनिः स्वयंजातो वैखनः सामगायनः।
देवकीनन्दनः स्रष्टा क्षितिशः पापनाशनः॥106॥

शङ्खबृण्णन्दकी चक्रि शरङ्गधन्वा गदाधरः।
रथाङ्गपाणिरक्षोभ्यः सर्वप्रहरणायुधः।
सर्वप्रहरणायुधः ओं नम इति॥107॥

वनमाली गदी शारङ्गी शङ्खी चक्रि च नन्दकी।
श्रिमन् नारायणो विष्णुः वासुदेवो अभिरक्षतु।
वासुदेवो अभिरक्षतु ओं नमो इति॥108॥

Vishnu ji Sahasranamam – उत्तर भाग

भीष्म उवाच

इतिेदं कीर्तनीयस्य केशवस्य महात्मनः।
नाम्नां सहस्रं दिव्यनाम शेषेण प्रसिद्धम्।

य एदम् श्रुणुयान्नित्यं यश्चापि परिकीर्तयेत्।
नाशुबं प्राप्तुयात्किंचिदसो अमुत्रेहच मानवः।

वेदान्तगो ब्राह्मणोऽस्ति क्षत्रियोजी विजयि भवेत्।
वैश्यो धनसमृद्धोऽस्ति शूद्रः सुखमवाप्नुयात्।

धर्मार्थी प्राप्तुयात् धर्मं अर्थार्थी च अर्थं आप्नुयात्।
कामानाप्नोयात् कामी प्रजार्थी प्राप्तुयात् प्रजां।

भक्तिमान्यः सदोथया शुभी-स्तद्गतमानसः।
सहस्रं वासुदेवस्य नामनामितत् प्रसिद्धम्।

यशः प्राप्तोति विपुलं ज्ञातिप्राधान्यमेव च।
अचलं श्रीमाप्नोति श्रेयोऽप्राप्तोत्यं उत्तमम्।

न भयम् क्वचिताप्नोति वीर्यं तेजश्च विन्दति।
भवत्यारोगो ध्यानिमान् बलरूपगुणान्वितः।

रोगार्थो मुच्यते रोगात् बद्धो मुच्येत बन्धनात्।
भयात् मुच्येत भीतस्तु मुच्येत अपन्नापदात्।

दुर्गान्यतिक्रमत्यशु पुरुषः पुरुषोत्तमम्।
स्तुवन्नम सहस्रेन नित्यम् भक्तिसमंवितः।

वासुदेवा-आश्रयो मर्यः वासुदेवा-परायणः।
सर्वपापविशुद्धात्मा याति ब्रह्म सनातनम्।

न वासुदेवभक्तानां शुभं विद्यते क्वचित्।
जन्ममृत्युजरा व्याधि भयम् नैवोपजायते।

इमं स्तवमधीयानः श्रद्धा-भक्तिसमंवितः।
युज्येतात्मसुखं शान्तिं श्रीधृतिस्मृतिकीर्तिभिः।

न क्रोधो न च मात्सर्यम् न लोभो न अशुभमतिः।
भवन्ति कृतपुण्यानां भक्तानां पुरुषोत्तमे।

द्यौः सचन्द्रार्कनक्षत्रं खं दिशो भूरमोधधिः।
वासुदेव्यवीर्येण विधृतानि महात्मनः।

स सुरासुरगन्धर्वं स यक्षोरगराक्षसं।
जगद्वशे वर्ततेदं कृष्णस्य स चराचरम्।

इन्द्रियाणि मनो बुद्धिः सत्त्वं तेजो बलं धृतिः।
वासुदेवा आत्मकंयः क्षेत्रं क्षेत्रज्ञ एव च।

सर्वगमनं आचरणं प्रथमं परिकल्प्यते।
आचरप्रभवो धर्मो धर्मस्य प्रभुरच्युतः।

ऋषयः पितरः देवाः महाभूतानि धातवः।
जङ्गम अजङ्गमं चेदं जगन्नारायणोद्धवम्।

योगो ज्ञानं तथा सांख्यं विद्याः शिल्पादी कर्म च।
वेदाः शास्त्राणि विज्ञानं एतत्सर्वं जनार्दनात्।

एको विष्णुर् महद्भूतं पृथग्भूतानि नेकशः।
त्रिमलोऽलोकान् व्याप्य भूतात्मा भुङ्क्ते विश्वभुगव्ययः।

इमं स्तवं भगवतो विष्णो व्यासेण कीर्तितम्।
पठेन्न य इच्छेत् पुरुषः श्रेयोऽप्राप्तुम् सुखानि च।

विश्वेश्वरं जगद्धेवं जगत्प्रभुं अव्ययं।
भजन्ति ये पुष्कराक्षं न ते यान्ति पराभवम्।
न ते यान्ति पराभवम्। ओं नम इति॥

उत्तर भाग

अर्जुन उवाच

पद्म-पत्र विशालाक्ष पद्मनाभ सुरोत्तमः।
भक्तानां अनुरक्तानां त्राता भव जनार्दनः।

श्री भगवान उवाच

यो माम् नाम सहस्रेण स्तुतुं इच्छति पाण्डवः।
सोऽहं यमेकन श्लोकेन स्तुत एव न संशयः।
स्तुत एव न संशयः। ओं नमः इति।

व्यास उवाच

वासानाद् वसु देवस्य वशीतम् भुवन त्रयम्।
सर्वभूतनिवासोऽसि वासुदेव नमोस्तुते।
वासुदेव नमोस्तुते। ओं नमः इति।

पार्वती उवाच

केनोपायेन लघुना विष्णोर्नाम सहस्रकम्।
पथ्यते पण्डितैः नित्यम् श्रोतुम् इच्छाम्यहम् प्रभो।

ईश्वर उवाच

श्रीराम राम रामेति रामे रामे मनोरे।
सहस्रनाम तत्तुल्यं रामनाम वरानने।
रामनाम वराणना। ओं नमः इति।

ब्रह्मा उवाच

नमोऽस्त्वनन्ताय सहस्रमूर्तये।
सहस्रपादाक्षि शिरोऽरु बाहवे।
सहस्रनामने पुरुषाय शाश्वते।
सहस्रकोटि युगधरीनं नमः।
सहस्रकोटि युगधरीनं। ओं नमः इति।

सञ्जय उवाच

यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः।
तत्र श्रीविजयो भूतिर्ध्रुवा नीतिर्ममममतिः।

श्री भगवान उवाच

अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते।
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम्।

परित्राणाय साधूनां विनाशाय च दुष्कृताम्।
धर्मसंस्थापनार्थाय सम्भवामि युगे युगे।

आर्तः विषन्नः शिथिलाश्च भीतः घोरेषु च व्याधिषु वर्तमानः।
सङ्कीर्तय नारायण शब्दमात्रं विमुक्त दुःखः सुखिनो भवन्ति।

समाप्ति की प्रार्थना

कायेन वाचा मनसेंद्रियैर्वा
बुद्ध्यात्मना वा प्रकृतैः स्वभावात्।
करोमी यद्यत् सर्वं परस्मै
नारायणायेति समर्पयामि।

विष्णु सहस्त्रनामम के जाप से जुड़ी जानकारी को जानने के बाद, आप विष्णु के अन्य मंत्रों के बारे में भी जान सकते हैं। [यहाँ पढ़ें विष्णु के अन्य मंत्रों के बारे में] और जीवन में शांति और समृद्धि लाने के लिए उन्हें नियमित रूप से जाप करें।

इसका पाठ करने की सरल विधि

सही विधि से इस मंत्र का पाठ करने से इसका प्रभाव कई गुना अधिक हो जाता है। यहां पाठ करने की सरल और प्रभावी विधि दी गई है-

  1. स्थान और समय: सुबह के समय शांत और पवित्र स्थान पर आसन लगाकर पूर्व या उत्तर दिशा की ओर मुख करके बैठें।
  2. शुद्धता: स्नान के बाद स्वच्छ कपड़ें पहनें और भगवान विष्णु का ध्यान करते हुए मन को एकाग्र करें।
  3. माला: जाप के लिए तुलसी की 108 दानों वाली माला का प्रयोग करें, जिससे हर नाम श्रद्धा से जपा जा सके।
  4. मंत्र उच्चारण: Vishnu Sahasranamam Lyrics का पाठ शुरू से अंत तक एक ही बार में पूर्ण करें, बीच में कोई व्यवधान न हो।
  5. आरती : जाप के बाद भगवान विष्णु की आरती करें और उनके चरणों में पूर्ण समर्पण के साथ प्रार्थना करें।

FAQ

इसका जाप कैसे करें?

इससे क्या लाभ होते हैं?

यह जाप मानसिक शांति, आध्यात्मिक उन्नति और रोगों से मुक्ति प्रदान करता है।

इसका पाठ किस समय करना सबसे उत्तम होता है?

Leave a comment